पतञ्जलि योग दर्शन

रचन: पतञ्जलि योग दर्शन

अथ समाधिपादः ।

अथ योगानुशासनम् ॥ 1 ॥

योगश्चित्तवृत्ति निरोधः ॥ 2 ॥

तदा द्रष्टुः स्वरूपे‌உवस्थानम् ॥ 3 ॥

वृत्ति सारूप्यमितरत्र ॥ 4 ॥

वृत्तयः पञ्चतस्यः क्लिष्टा‌உक्लिष्टाः ॥ 5 ॥

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ 6 ॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 7 ॥

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् ॥ 8 ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥

अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ॥ 10 ॥

अनभूत विषयासम्प्रमोषः स्मृतिः ॥ 11 ॥

अभ्यास वैराग्याभ्यां तन्निरोधः ॥ 12 ॥

तत्र स्थितौ यत्नो‌உभ्यासः ॥ 13 ॥

स तु दीर्घकाल नैरन्तर्य सक्तारासेवितो दृढभूमिः ॥ 14 ॥

दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ 15 ॥

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् ॥ 16 ॥

वितर्क विचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ 17 ॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो‌உनयः ॥ 18 ॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 19 ॥

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् ॥ 20 ॥

तीव्रसंवेगानामासन्नः ॥ 21 ॥

मृदुमध्याधिमात्रत्वात्ततो‌உपि विशेषः ॥ 22 ॥

ईश्वरप्रणिधानाद्वा ॥ 23 ॥

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 24 ॥

तत्र निरतिशयं सर्वज्ञवीजम् ॥ 25 ॥

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 26 ॥

तस्य वाचकः प्रणवः ॥ 27 ॥

तज्जपस्तदर्थभावनम् ॥ 28 ॥

ततः प्रत्यक्चेतनाधिगमो‌உप्यन्तरायाभावश्च ॥ 29 ॥

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते‌உन्तरायाः ॥ 30 ॥

दुःख दौर्म्मनरस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ 31 ॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 32 ॥

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ 33 ॥

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य ॥ 34 ॥

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबन्धनी ॥ 35 ॥

विशोका वा ज्योतिष्मती ॥ 36 ॥

वीतराग विषयं वा चित्तम् ॥ 37 ॥

स्वप्न निद्रा ज्ञानालम्बनं वा ॥ 38 ॥

यथाभिमतध्यानाद्वा ॥ 39 ॥

परमाणु परम महत्त्वान्तो‌உस्य वशीकारः ॥ 40 ॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ॥ 41 ॥

तत्र शब्दार्थ ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ 42 ॥

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का ॥ 43 ॥

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता ॥ 44 ॥

सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् ॥ 45 ॥

ता एव सवीजः समाधिः ॥ 46 ॥

निर्विचार वैशाराध्ये‌உध्यात्मप्रसादः ॥ 47 ॥

ऋतम्भरा तत्र प्रज्ञा ॥ 48 ॥

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 49 ॥

तज्जः संस्कारो‌உन्यसंस्कार प्रतिबन्धी ॥ 50 ॥

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः ॥ 51 ॥

इति पातञ्जलयोगदर्शने समाधिपादो नाम प्रथमः पादः ।